हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...
Devi Narayaniyam Dasakam 26 – षड्विंश दशकम् (२६) – सुरथ कथा
राजा पुराऽऽसित् सुरथाभिधानः
स्वारोचिषे चैत्रकुलावतंसः ।
मन्वन्तरे सत्यरतो वदान्यः
सम्यक्प्रजापालनमात्रनिष्ठः ॥ २६-१ ॥
वीरोऽपि दैवात्समरे स कोला-
-विध्वंसिभिः शत्रुबलैर्जितः सन् ।
त्यक्त्वा स्वराज्यं वनमेत्य शान्तं
सुमेधसं प्राप मुनिं शरण्यम् ॥ २६-२ ॥
तपोवनं निर्भयमावसन् द्रु-
-च्छायाश्रितः शीतलवातपृक्तः ।
स एकदा राज्यगृहादिचिन्ता-
-पर्याकुलः कञ्चिदपश्यदार्तम् ॥ २६-३ ॥
राजा तमूचे सुरथोऽस्मि नाम्ना
जितोऽरिभिर्भ्रष्टविभूतिजालः ।
गृहादिचिन्तामथितान्तरङ्गः
कुतोऽसि कस्त्वं वद मां समस्तम् ॥ २६-४ ॥
श्रुत्वेति स प्रत्यवदत्समाधि-
-नामाऽस्मि वैश्यो हृतसर्ववित्तः ।
पत्नीसुताद्यैः स्वगृहान्निरस्त-
-स्तथाऽपि सोत्कण्ठमिमान् स्मरामि ॥ २६-५ ॥
अनेन साकं सुरथो विनीतो
मुनिं प्रणम्याह समधिनामा ।
गृहान्निरस्तोऽपि गृहादिचिन्तां
करोति सोत्कण्ठमयं महर्षे ॥ २६-६ ॥
ब्रह्मैव सत्यं परमद्वितीयं
मिथ्या जगत्सर्वमिदं च जाने ।
तथाऽपि मां बाधत एव राज्य-
-गृहादिचिन्ता वद तस्य हेतुम् ॥ २६-७ ॥
ऊचे तपस्वी शृणु भूप माया
सर्वस्य हेतुः सगुणाऽगुणा सा ।
बन्धं च मोक्षं च करोति सैव
सर्वेऽपि मायावशगा भवन्ति ॥ २६-८ ॥
ज्ञानं हरेरस्ति विधेश्च किन्तु
क्वचित्कदाचिन्मिलितौ मिथस्तौ ।
विमोहितौ कस्त्वमरे नु कस्त्व-
-मेवं विवादं किल चक्रतुः स्म ॥ २६-९ ॥
ज्ञानं द्विधैकं त्वपरोक्षमन्य-
-त्परोक्षमप्येतदवेहि राजन् ।
आद्यं महेश्याः कृपया विरक्त्या
भक्त्या महत्सङ्गमतश्च लभ्यम् ॥ २६-१० ॥
य एतदाप्नोति स सर्वमुक्तो
द्वेषश्च रागश्च न तस्य भूप ।
ज्ञानं द्वितीयं खलु शास्त्रवाक्य-
-विचारतो बुद्धिमतैव लभ्यम् ॥ २६-११ ॥
शमादिहीनो न च शास्त्रवाक्य-
-विचारमात्रेण विमुक्तिमेति ।
देव्याः कटाक्षैर्लभते च भुक्तिं
मुक्तिं च सा केवलभक्तिगम्या ॥ २६-१२ ॥
सम्पूज्य तां साकमनेन दुर्गां
कृत्वा प्रसन्नां स्वहितं लभस्व ।
श्रुत्वा मुनेर्वाक्यमुभौ महेशि
त्वां पूजयामासतुरिद्धभक्त्या ॥ २६-१३ ॥
वर्षद्वयान्ते भवतीं समीक्ष्य
स्वप्ने सतोषावपि तावतृप्तौ ।
दिदृक्षया जाग्रति चापि भक्ता-
-वाचेरतुर्द्वौ कठिनव्रतानि ॥ २६-१४ ॥
वर्षत्रयान्ते सुमुखीं प्रसन्नां
त्वां वीक्ष्य तौ तुष्टुवतुः प्रहृष्टौ ।
दैवात्समाधिस्त्वदनुग्रहेण
लब्ध्वा परं ज्ञानमवाप मुक्तिम् ॥ २६-१५ ॥
भोगाविरक्तः सुरथस्तु शीघ्रं
निष्कण्टकं राज्यमवाप भूयः ।
मन्वन्तरे भूपतिरष्टमे स
सावर्णिनामा च मनुर्बभूव ॥ २६-१६ ॥
त्वं भुक्तिकामाय ददासि भोगं
मुमुक्षवे संसृतिमोचनं च ।
किञ्चिन्न पृच्छामि परं विमूढो
नमामि ते पादसरोजयुग्मम् ॥ २६-१७ ॥
www.sanatanadharm.com
- play store app (
sanatana dharm
)
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.